Shri Gaesh PanchRatnam Stotram Lyrics
॥ श्री गणेश पंच रत्नम स्तोत्रम ॥
Shri Gaesh PanchRatnam Stotram Lyrics
मुदाकरात्तमोदकं सदा विमुक्तिसाधकम् ।
कलाधरावतंसकं विलासिलोकरक्षकम् ॥
अनायकैकनायकं विनाशितेभदैत्यकम् ।
नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥
नतेतरातिभीकरं नवोदितार्कभास्वरम् ।
नमत्वतीव दानवद्विषुन्न्तासधारकम् ॥
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् ।
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरम् ।
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ॥
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनम् ।
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ॥
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणम् ।
कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम् ।
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ॥
हृदन्तरे निरन्तरं वसन्तमेव योगिनाम् ।
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥ ५ ॥
महागणेशपञ्चरत्नमादरेण योऽन्वहम् ।
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ॥
अरोगतामदोषतां सुसाहितीं सुपुत्रताम् ।
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥
Pingback: श्री गणेश स्तुति,भजन, आरती संकलन : Shri Ganesh Stuti Bhajan Aarti Collection